Sukta 10.49
एवा देवाँ इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः । विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥
ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः । विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रास॑: स्वयशो गृणन्ति ॥
evā́ devā́ṃ índro vivyé nṝ́n prá cyautnéna maghávā satyá-rādhāḥ | víśvettā́ te hari-vaḥ śacī-vo ’bhí turā́saḥ sva-yaśo gṛṇanti ||
Thus Indra has pervaded the gods and the human powers; by his impelling energy the bountiful one fulfils in truth. Therefore all the strong ones, O lord of the tawny steeds, O power of effective intelligence, sing to you—self-luminous in glory.
ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः । विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥एव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघवा । सत्यराधाः । विश्वा । इत् । ता । ते । हरिवः । शचीवः । अभि । तुरासः । स्वयशः । गृणन्ति ॥eva | devān | indraḥ | vivye | nṝn | pra | cyautnena | magha-vā | satya-rādhāḥ | v iśvā | it | tā | te | hari-vaḥ | śacī-vaḥ | abhi | turāsaḥ | sva-yaśaḥ | gṛṇanti