Sukta 10.47
वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः । हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
वनी॑वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा॑श्चरन्ति सुम॒तीरि॑या॒नाः । हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
vanīvā́nō máma dūtā́sa índraṃ stómāś caranti sumatī́r iyānā́ḥ | hṛdíspṛśo mánasā vacyámānā asmábhyaṃ citráṃ vṛ́ṣaṇaṃ rayíṃ dāḥ ||
My chants, like eager messengers, move toward Indra, traveling by paths of right goodwill. Touching the heart, formed by the mind into speech, may they win for us the radiant and potent rayi, the manifold inner wealth.
वनी॑वानः । मम॑ । दू॒तासः॑ । इन्द्र॑म् । सोमाः॑ । च॒र॒न्ति॒ । सु॒ऽम॒तीः । इ॒या॒नाः । हृ॒दि॒ऽस्पृशः॑ । मन॑सा । व॒च्यमा॑नाः । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥वनीवानः । मम । दूतासः । इन्द्रम् । सोमाः । चरन्ति । सुमतीः । इयानाः । हृदिस्पृशः । मनसा । वच्यमानाः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥vanīvānaḥ | mama | dūtāsaḥ | indram | somāḥ | caranti | su-matīḥ | iyānāḥ | hṛdi-spṛśaḥ | manasā | vacyamānāḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ