Sukta 10.47
प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति । य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥
प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति । य आ॑ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
prá saptágum ṛtádhītiṃ sumedhā́ṃ bṛ́haspátiṃ matír ácchā jigāti | yá āṅgirásō námasopasádyo ’smábhyaṃ citráṃ vṛ́ṣaṇaṃ rayíṃ dāḥ ||
Forward goes our thought to Bṛhaspati, the seven-cowed, the thinker of ṛta, the luminous intelligence. He, the Aṅgiras, near to whom we sit with adoration—may he give us the radiant and potent rayi, the manifold inner wealth.
प्र । स॒प्तऽगु॑म् । ऋ॒तऽधी॑तिम् । सु॒ऽमे॒धाम् । बृ॒ह॒स्पति॑म् । म॒तिः । अच्छ॑ । जि॒गा॒ति॒ । यः । आ॒ङ्गि॒र॒सः । नम॑सा । उ॒प॒ऽसद्यः॑ । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥प्र । सप्तगुम् । ऋतधीतिम् । सुमेधाम् । बृहस्पतिम् । मतिः । अच्छ । जिगाति । यः । आङ्गिरसः । नमसा । उपसद्यः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥pra | sapta-gum | ṛta-dhītim | su-medhām | bṛhaspatim | matiḥ | accha | jigāti | yaḥ | āṅgirasaḥ | namasā | upa-sadyaḥ | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ