Sukta 10.47
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र । भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
अश्वा॑वन्तं र॒थिनं॑ वी॒रव॑न्तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिन्द्र । भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
aśvā́vantaṃ rathínaṃ vīrávantaṃ sahasríṇaṃ śatínaṃ vā́jam indra | bhadravrátaṃ vípravīraṃ svaḥsā́m asmábhyaṃ citráṃ vṛ́ṣaṇaṃ rayíṃ dāḥ ||
O Indra, give us the vāja—plenitude of victorious force—rich in steeds and chariots, rich in heroes, a thousandfold and a hundredfold. Give us the radiant, strong rayi, a fullness of being that moves with auspicious laws, carries inspired seers as its strength, and wins the luminous heaven within.
अश्व॑ऽवन्तम् । र॒थिन॑म् । स॒ह॒स्रिण॑म् । श॒तिन॑म् । वाज॑म् । इ॒न्द्र॒ । भ॒द्रऽव्रा॑तम् । विप्र॑ऽवीरम् । स्वः॒ऽसाम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥अश्ववन्तम् । रथिनम् । सहस्रिणम् । शतिनम् । वाजम् । इन्द्र । भद्रव्रातम् । विप्रवीरम् । स्वःसाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥aśva-vantam | rathinam | sahasriṇam | śatinam | vājam | indra | bhadra-vrātam | vipra-vīram | svaḥ-sām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ