Sukta 10.47
सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् । दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् । द॒स्यु॒हनं॑ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
sanádvā́jaṁ vípravīraṁ tárutraṁ dhanaspṛ́taṁ śūśuvā́ṁsaṁ sudákṣam | dasyuhánaṁ pūrbhídam indra satyám asmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||
Give us the ancient plenitude of force (vāja), rich in inspired heroes, a saving power, a wealth-winner, eager and well-skilled; slayer of the dasyu within, breaker of obstructing strongholds, O Indra—true in action—grant to us a varied and potent rayi.
स॒नत्ऽवा॑जम् । विप्र॑ऽवीरम् । तरु॑त्रम् । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् । द॒स्यु॒हन॑म् । पूः॒ऽभिद॑म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥सनत्वाजम् । विप्रवीरम् । तरुत्रम् । धनस्पृतम् । शूशुवांसम् । सुदक्षम् । दस्युहनम् । पूःभिदम् । इन्द्र । सत्यम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥sanat-vājam | vipra-vīram | tarutram | dhana-spṛtam | śūśu-vāṃsam | su-dakṣam | dasyuhanam | pūḥ-bhidam | indra | satyam | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ