Sukta 10.47
सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र । श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
सु॒ब्रह्मा॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
subráhmāṇaṁ devávantaṁ bṛhántam urúṁ gabhīráṁ pṛthúbudhnam indra | śrutáṛṣiṁ ugrám abhimātiṣā́ham asmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||
Give us the plenitude that is rich in mantra and divine, vast and wide, deep and broad-based, O Indra; that listens to the seer, fierce against the assailing thoughts, conquering the hostile formations—grant to us a varied, potent rayi.
सु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ । श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥सुब्रह्माणम् । देववन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथुबुध्नम् । इन्द्र । श्रुतऋषिम् । उग्रम् । अभिमातिसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥su-brahmāṇam | deva-vantam | bṛhantam | urum | gabhīram | pṛthu-budhnam | indra | śruta-ṛṣim | ugram | abhimāti-saham | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ