Sukta 10.47
स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् । चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतु॑:समुद्रं ध॒रुणं॑ रयी॒णाम् । च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
svāyudháṁ svávasaṁ sunī́thaṁ catúḥsamudraṁ dháruṇaṁ rayīṇā́m | carkṛ́tyaṁ śáṁsyaṁ bhū́rivāram asmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||
Give us the plenitude that is well-armed, self-sufficient, and well-guided; a wealth that holds firm like the four seas, a foundation for many streams of richness. Give what is to be made and built, what is to be proclaimed, abundant in wideness—varied, potent, a rayi of fulfilled being.
सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् । च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥सुआयुधम् । सुअवसम् । सुनीथम् । चतुःसमुद्रम् । धरुणम् । रयीणाम् । चर्कृत्यम् । शंस्यम् । भूरिवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥su-āyudham | su-avasam | su-nītham | catuḥ-samudram | dharuṇam | rayīṇām | carkṛtyam | śaṃsyam | bhūri-vāram | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ