Sukta 10.47
जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
jagṛbhmā́ te dákṣiṇam indra hástaṁ vasūyávo vasupate vásūnām | vidmā́ hí tvā gópatim śūra gónām asmábhyaṁ citráṁ vṛ́ṣaṇaṁ rayíṁ dāḥ ||
We have grasped your right hand, O Indra—O lord of treasures, we who seek the riches of being. For we know you as the strong guardian of the Rays (cows). Give to us a varied, virile plenitude (rayi), a wealth that is force and light.
ज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥जगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुयवः । वसुपते । वसूनाम् । विद्म । हि । त्वा । गोपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥jagṛbhma | te | dakṣiṇam | indra | hastam | vasu-yavaḥ | vasu-pate | vasūnām | vidma | hi | tvā | go--patim | śūra | gonām | asmabhyam | citram | vṛṣaṇam | rayim | dāḥ