Sukta 10.46
द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः । ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः । ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥
dyāvā́ yám agníṁ pṛthivī́ jánīṣṭām ā́pas tváṣṭā bhṛ́gavo yáṁ sáhobhiḥ | īḷényam prathamáṁ mātáriśvā devā́ḥ tatakṣur mánave yájatram ||
The Heaven and the Earth brought to birth that Agni; the Waters, Tvaṣṭṛ, and the Bhṛgus shaped him with their powers. The gods hewed out first the adorable one, and Mātariśvan carried him for Man—worthy of the offering: the fire meant for the human ascent.
द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः । ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥द्यावा । यम् । अग्निम् । पृथिवी इति । जनिष्टाम् । आपः । त्वष्टा । भृगवः । यम् । सहःभिः । ईळेन्यम् । प्रथमम् । मातरिश्वा । देवाः । ततक्षुः । मनवे । यजत्रम् ॥dyāvā | yam | agnim | pṛthivī iti | janiṣṭām | āpaḥ | tvaṣṭā | bhṛgavaḥ | yam | sahaḥ-bhiḥ | īḷenyam | prathamam | mātariśvā | devāḥ | tatakṣuḥ | manave | yajatram