Sukta 10.46
यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम् । स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥
यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् । स याम॑न्नग्ने स्तुव॒ते वयो॑ धा॒: प्र दे॑व॒यन्य॒शस॒: सं हि पू॒र्वीः ॥
yáṁ tvā devā́ dadhiré havyavā́haṁ puruspṛ́ho mā́nuṣāso yájatram | sá yā́mann agne stuvaté váyo dhāḥ prá devayán yaśásaḥ sáṁ hí pūrvī́ḥ ||
You whom the gods established as the carrier of the offering—desired by many, worthy for men—give in your movement, O Agni, the plenitudes of life to the one who praises. Going godward, gather for him the many former glories: awaken the stored attainments of the past into the present ascent.
यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् । सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥यम् । त्वा । देवाः । दधिरे । हव्यवाहम् । पुरुस्पृहः । मानुषासः । यजत्रम् । सः । यामन् । अग्ने । स्तुवते । वयः । धाः । प्र । देवयन् । यशसः । सम् । हि । पूर्वीः ॥yam | tvā | devāḥ | dadhire | havya-vāham | puru-spṛhaḥ | mānuṣāsaḥ | yajatram | saḥ | yāman | agne | stuvate | vayaḥ | dhāḥ | pra | deva-yan | yaśasaḥ | sam | hi | pūrvīḥ