Sukta 10.46
प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः । तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥
प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः । तमा॒यव॑: शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥
prá jihváyā bharate vépo agníḥ prá vayúnāni cétasā pṛthivyā́ḥ | tám ā́yavaḥ śucáyantaṁ pāvakáṁ mandráṁ hótāraṁ dadhire yájiṣṭham ||
With his tongue Agni bears forward the tremor of utterance; with the mind he brings forth the discernments of the earth-nature. Him the seekers set in place—purifying, bright— the rapturous Hotar, most capable of the sacrifice.
प्र । जि॒ह्वया॑ । भ॒र॒ते॒ । वेपः॑ । अ॒ग्निः । प्र । व॒युना॑नि । चेत॑सा । पृ॒थि॒व्याः । तम् । आ॒यवः॑ । शु॒चय॑न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता॑रम् । द॒धि॒रे॒ । यजि॑ष्ठम् ॥प्र । जिह्वया । भरते । वेपः । अग्निः । प्र । वयुनानि । चेतसा । पृथिव्याः । तम् । आयवः । शुचयन्तम् । पावकम् । मन्द्रम् । होतारम् । दधिरे । यजिष्ठम् ॥pra | jihvayā | bharate | vepaḥ | agniḥ | pra | vayunāni | cetasā | pṛthivyāḥ | tam | āyavaḥ | śucayantam | pāvakam | mandram | hotāram | dadhire | yajiṣṭham