Sukta 10.46
अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नय॑: पाव॒काः । श्वि॒ती॒चय॑: श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमा॑: ॥
asyā́jarāso damā́m arítrā aŕcad-dhūmāso agnáyaḥ pāvakā́ḥ | śvitī́cayaḥ śvātrā́so bhuraṇyávo vanaṣádo vāyávo ná somā́ḥ ||
His fires, ageless, are the pilots of the dwelling; they flame with their smoke, purifying. Bright in their kindling, swift in their going, eager in their surge, they sit in the forest-nature like winds—like Soma-powers moving through the being.
अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः । श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥अस्य । अजरासः । दमाम् । अरित्राः । अर्चत्धूमासः । अग्नयः । पावकाः । श्वितीचयः । श्वात्रासः । भुरण्यवः । वनसदः । वायवः । न । सोमाः ॥asya | ajarāsaḥ | damām | aritrāḥ | arcat-dhūmāsaḥ | agnayaḥ | pāvakāḥ | śvitīcayaḥ | śvātrāsaḥ | bhuraṇyavaḥ | vana-sadaḥ | vāyavaḥ | na | somāḥ