Sukta 10.46
प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् । नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥
प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् । नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥
prá bhūrjáyantaṁ mahā́ṁ vipodhā́ṁ mūrā́ amū́raṁ purā́ṁ darmā́ṇam | náyanto gárbhaṁ vanā́ṁ dhíyaṁ dhur hiriśmáśruṁ nā́rvāṇaṁ dhánārcam ||
Forward they bring the great conquering Force, the wide home of the seer-vision; the strong ones bear the unbewildered, the ancient foundation of the many strongholds. Leading the hidden embryo of the woods, they set the thought in its yoke—like a tawny-bearded power that does not slacken, rich in the chant of plenitude.
प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् । नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥प्र । भूः । जयन्तम् । महान् । विपःधाम् । मूराः । अमूरम् । पुराम् । दर्माणम् । नयन्तः । गर्भम् । वनाम् । धियम् । धुः । हिरिश्मश्रुम् । न । अर्वाणम् । धनअर्चम् ॥pra | bhūḥ | jayantam | mahān | vipaḥ-dhām | mūrāḥ | amūram | purām | darmāṇam | nayantaḥ | garbham | vanām | dhiyam | dhuḥ | hiri-śmaśrum | na | arvāṇam | dhana-arcam