Sukta 10.46
मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् । विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥
म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भि॒: प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् । वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥
mandráṃ hótāram uśíjo námo-bhiḥ prā́ñcaṃ yajñáṃ netā́ram adhvarā́ṇām | viśā́m akṛṇvann aratíṃ pāvakáṃ havya-vā́haṃ dádhato mā́nuṣeṣu ||
With acts of reverence the flame-seekers fashioned the gladdening Hotṛ, the forward-leading sacrifice, the guide of the paths of offering. They made him the purifier and true conductor for the peoples, establishing the bearer of the oblation among human beings.
म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् । वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥मन्द्रम् । होतारम् । उशिजः । नमःभिः । प्राञ्चम् । यज्ञम् । नेतारम् । अध्वराणाम् । विशाम् । अकृण्वन् । अरतिम् । पावकम् । हव्यवाहम् । दधतः । मानुषेषु ॥mandram | hotāram | uśijaḥ | namaḥ-bhiḥ | prāñcam | yajñam | netāram | adhvarāṇām | viśām | akṛṇvan | aratim | pāvakam | havya-vāham | dadhataḥ | mānuṣeṣu