Sukta 10.46
इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः । स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥
इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः । स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥
imáṃ tritó bhū́ry avindad icchán vaibhū-váso mū́rdhany aghnyā́yāḥ | sá śévr̥dho jā́ta ā́ harmyéṣu nā́bhir yúvā bhavati rocanásya ||
This Fire Trita found in abundance while seeking, the wide-shining one, set at the head of the unviolable (cow of light). Born, he grows to wellbeing within the houses; he becomes the youthful navel-center of the luminous world.
इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः । सः । शेवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥इमम् । त्रितः । भूरि । अविन्दत् । इच्छन् । वैभुवसः । मूर्धनि । अघ्न्यायाः । सः । शेवृधः । जातः । आ । हर्म्येषु । नाभिः । युवा । भवति । रोचनस्य ॥imam | tritaḥ | bhūri | avindat | icchan | vaibhu-vasaḥ | mūrdhani | aghnyāyāḥ | saḥ | śevṛdhaḥ | jātaḥ | ā | harmyeṣu | nābhiḥ | yuvā | bhavati | rocanasya