Sukta 10.46
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् । गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन् ॥
इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् । गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥
imáṃ vidhánto apā́ṃ sadhásthe paśúṃ na naṣṭáṃ padáir ánu gman | guhā́ cátantam uśíjo námo-bhir icchánto dhīrā́ bhṛ́gavo ’vindan ||
Fashioning this Fire in the common seat of the waters, they tracked him like a lost creature by his footprints. Hidden in the cavern, moving secretly, the flame-seekers found him—those steadfast ones, the Bhṛgus—by their reverent surrender.
इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् । गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥इमम् । विधन्तः । अपाम् । सधस्थे । पशुम् । न । नष्टम् । पदैः । अनु । ग्मन् । गुहा । चतन्तम् । उशिजः । नमःभिः । इच्छन्तः । धीराः । भृगवः । अविन्दन् ॥imam | vidhantaḥ | apām | sadha-sthe | paśum | na | naṣṭam | padaiḥ | anu | gman | guhā | catantam | uśijaḥ | namaḥ-bhiḥ | icchantaḥ | dhīrāḥ | bhṛgavaḥ | avindan