Sukta 10.46
प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे । दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥
प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ । दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥
prá hótā jā́to mahā́n nabhó-vin nṛ-sádvā sīdad apā́m upásthe | dadhír yó dhā́yi sá te váyāṃsi yantā́ vasū́ni vidhaté tanū-pā́ḥ ||
Born as the priest of the offering, great and a knower of the heights, he sits as the indwelling power among men, in the lap of the waters. He who is set firm as the foundation—he directs your movements and brings the riches to the worshipper, guarding the embodied being.
प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ । दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥प्र । होता । जातः । महान् । नभःवित् । नृसद्वा । सीदत् । अपाम् । उपस्थे । दधिः । यः । धायि । सः । ते । वयांसि । यन्ता । वसूनि । विधते । तनूपाः ॥pra | hotā | jātaḥ | mahān | nabhaḥ-vit | nṛ-sadvā | sīdat | apām | upa-stheḥdadhi ḥḥyaḥḥdhāyiḥsaḥḥteḥvayāṃsiḥyantāḥvasūniḥvidhateḥtanū-pāḥ