Sukta 10.43
उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् । वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥
उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् । वि रो॑चतामरु॒षो भा॒नुना॒ शुचि॒: स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥
úd jāyatāṃ paráśur jyótiṣā sahá bhūyā́ ṛtásya su-dughā́ purāṇá-vat | ví rocatām aruṣó bhānúnā śúciḥ svàrṇa śukráṃ śuśucīta sát-patiḥ ||
Let the cleaving power be born upward together with the Light; may the bounteous milker of the Truth become again as of old. Let the ruddy one shine out with his pure beam; the lord of the true (being) has kindled the bright radiance of the sun-world within.
उत् । जा॒य॒ता॒म् । प॒र॒शुः । ज्योति॑षा । स॒ह । भू॒याः । ऋ॒तस्य॑ । सु॒ऽदुघा॑ । पु॒रा॒ण॒ऽवत् । वि । रो॒च॒ता॒म् । अ॒रु॒षः । भा॒नुना॑ । शुचिः॑ । स्वः॒ । ण । शु॒क्रम् । शु॒शु॒ची॒त॒ । सत्ऽप॑तिः ॥उत् । जायताम् । परशुः । ज्योतिषा । सह । भूयाः । ऋतस्य । सुदुघा । पुराणवत् । वि । रोचताम् । अरुषः । भानुना । शुचिः । स्वः । ण । शुक्रम् । शुशुचीत । सत्पतिः ॥ut | jāyatām | paraśuḥ | jyotiṣā | saha | bhūyāḥ | ṛtasya | su-dughā | purāṇa-vat | vi | rocatām | aruṣaḥ | bhānunā | śuciḥ | svaḥ | ṇa | śukram | śuśucīta | sat-patiḥ