Sukta 10.43
वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः । स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥
वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥
vṛ́ṣā ná krúddhaḥ patayad rájaḥsv ā́ yó aryá-patnīr ákṛṇod imā́ ápaḥ | sá sunvaté maghávā jīrá-dānave’víndaj jyótir mánave havíṣmate ||
Like an angered Bull he rushed through the mid-worlds, he who made these waters to have Aryan lords (right masters). He, the Bounteous, found the Light for Manu who presses Soma and bears the offering—granting swift gifts to the persevering giver.
वृषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः । अ॒पः । सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे । अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥वृषा । न । क्रुद्धः । पतयत् । रजःसु । आ । यः । अर्यपत्नीः । अकृणोत् । इमाः । अपः । सः । सुन्वते । मघवा । जीरदानवे । अविन्दत् । ज्योतिः । मनवे । हविष्मते ॥vṛṣā | na | kruddhaḥ | patayat | rajaḥ-su | ā | yaḥ | arya-patnīḥ | akṛṇot | imāḥ | apaḥ | saḥ | sunvate | magha-vā | jīra-dānave | avindat | jyotiḥ | manave | haviṣmate