Sukta 10.43
आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् । वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥
आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इ॑व ह्र॒दम् । वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥
ā́po ná síndhum abhí yát samákṣaran sómāsa índraṃ kulyā́ iva hradám | várdhanti víprā máho asya sā́dane yávaṃ ná vṛṣṭír divyéna dā́nunā ||
As waters flow together into the river, so the Somas stream to Indra as channels to a lake. The seers increase his greatness in his seat, as rain by the heavenly giver makes the barley grow.
आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑सः । इन्द्र॑म् । कु॒ल्याःऽइ॑व । ह्र॒दम् । वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । साद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥आपः । न । सिन्धुम् । अभि । यत् । सम्अक्षरन् । सोमासः । इन्द्रम् । कुल्याःइव । ह्रदम् । वर्धन्ति । विप्राः । महः । अस्य । सादने । यवम् । न । वृष्टिः । दिव्येन । दानुना ॥āpaḥ | na | sindhum | abhi | yat | sam-akṣaran | somāsaḥ | indram | kulyāḥ-iva | hradam | vardhanti | viprāḥ | mahaḥ | asya | sādane | yavam | na | vṛṣṭiḥ | divyena | dānunā