Sukta 10.43
विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा । यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥
विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ । यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमै॑: सहते पृतन्य॒तः ॥
víśaṃ-viśaṃ maghávā páry aśāyata jánānāṃ dhénā avá-cākaśad vṛ́ṣā | yásyā́ha śakráḥ sávanēṣu ráṇyati sá tīvráir sómaiḥ sahate pṛtanyatáḥ ||
From clan to clan the Bounteous ranges; the Bull makes the herds of the peoples shine forth. He in whose pressings the Shakra takes delight—he, with the strong Somas, prevails over those who wage battle.
विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेनाः॑ । अ॒व॒ऽचाक॑शत् । वृषा॑ । यस्य । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । ती॒व्रैः । सोमैः॑ । स॒ह॒ते॒ । पृ॒त॒न्य॒तः ॥विशम्विशम् । मघवा । परि । अशायत । जनानाम् । धेनाः । अवचाकशत् । वृषा । यस्य । अह । शक्रः । सवनेषु । रण्यति । सः । तीव्रैः । सोमैः । सहते । पृतन्यतः ॥viśam-viśam | magha-vā | pari | aśāyata | janānām | dhenāḥ | ava-cākaśat | vṛṣā | yasya | aha | śakraḥ | savaneṣu | raṇyati | saḥ | tīvraiḥ | somaiḥ | sahate | pṛtanyataḥ