Sukta 10.43
कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् । न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥
कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् । न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥
kṛtáṃ ná śvá-ghnī ví cinoti dévane saṃvárgaṃ yán maghávā sū́ryaṃ jáyat | ná tát te anyó ánu vī́ryaṃ śakanná purāṇó maghavannóta nū́tanaḥ ||
As a winning throw is gathered up by the lucky player, so is the whole stake won when the Bounteous conquers the Sun. None other can follow that hero-power of yours, O Maghavan—neither ancient nor new.
कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् । न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥कृतम् । न । श्वघ्नी । वि । चिनोति । देवने । सम्वर्गम् । यत् । मघवा । सूर्यम् । जयत् । न । तत् । ते । अन्यः । अनु । वीर्यम् । शकत् । न । पुराणः । मघवन् । न । उत । नूतनः ॥kṛtam | na | śva-ghnī | vi | cinoti | devane | sam-vargam | yat | magha-vā | sūryam | jayat | na | tat | te | anyaḥ | anu | vīryam | śakat | na | purāṇaḥ | magha-van | na | uta | nūtanaḥ