Sukta 10.43
वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः । प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥
वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षद॑: । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥
váyo ná vṛkṣáṃ su-palā́śam ā́sadan sómāsa índraṃ mandínaś camū-ṣádaḥ | prá eṣām anī́kaṃ śávasā dā́vidyutad vidát svàr mánave jyótir ā́ryam ||
As birds alight on a tree rich in fair leaves, so the gladdening Soma-draughts have settled upon Indra, seated in the pressing-bowl. Their front of power flashes forth by strength; they find the Sun-world and the Aryan light for Manu—the human seeker.
वयः॑ । न । वृ॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑सः । इन्द्र॑म् । म॒न्दिनः॑ । च॒मू॒ऽसदः॑ । प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः॑ । आर्य॑म् ॥वयः । न । वृक्षम् । सुपलाशम् । आ । असदन् । सोमासः । इन्द्रम् । मन्दिनः । चमूसदः । प्र । एषाम् । अनीकम् । शवसा । दविद्युतत् । विदत् । स्वः । मनवे । ज्योतिः । आर्यम् ॥vayaḥ | na | vṛkṣam | su-palāśam | ā | asadan | somāsaḥ | indram | mandinaḥ | camū-sadaḥ | pra | eṣām | anīkam | śavasā | davidyutat | vidat | svaḥ | manave | jyotiḥ | āryam