Sukta 10.43
विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते । तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥
वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते । तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिण॑: ॥
viṣū-vṛ́d índro ámater utá kṣúdhaḥ sá íd rāyó maghávā vásva īśate | tásyed imé pravaṇé saptá síndhavo váyo vardhanti vṛṣabhásya śuṣmíṇaḥ ||
Indra widens us out of wrong-mindedness and out of hunger; he, the Bounteous, truly holds lordship over the riches and the good. For him, on the forward slope, the seven rivers increase their currents—powers of movement—for the strong Bull, full of impelling force.
वि॒षु॒ऽवृत् । इन्द्रः॑ । अम॑तेः । उ॒त् । क्षु॒धः । सः । इत् । रा॒यः । म॒घऽवा॑ । वस्वः॑ । ई॒श॒ते॒ । तस्य॑ । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध॑वः । वयः॑ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिणः॑ ॥विषुवृत् । इन्द्रः । अमतेः । उत् । क्षुधः । सः । इत् । रायः । मघवा । वस्वः । ईशते । तस्य । इमे । प्रवणे । सप्त । सिन्धवः । वयः । वर्धन्ति । वृषभस्य । शुष्मिणः ॥viṣu-vṛt | indraḥ | amateḥ | ut | kṣudhaḥ | saḥ | it | rāyaḥ | magha-vā | vasvaḥ | īśate | tasya | ime | pravaṇe | sapta | sindhavaḥ | vayaḥ | vardhanti | vṛṣabhasya | śuṣmiṇaḥ