Sukta 10.43
न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय । राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥
न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय । राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥
ná ghā tvadríg ápa veti me mánas tvé ít kā́maṃ puruhūta śiśraya | rā́jeva dasma ní ṣádo’dhí bárhiṣy asmín tsu sóme’va-pā́nam astu te ||
Never does my mind turn away from you; in you alone, O much-invoked, it has taken refuge as its desire. Sit down, O wondrous one, like a king upon the sacred seat; in this Soma let there be for you a full draught and acceptance.
न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ । राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥न । घ । त्वद्रिक् । अप । वेति । मे । मनः । त्वे इति । इत् । कामम् । पुरुहूत । शिश्रय । राजाइव । दस्म । नि । सदः । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवपानम् । अस्तु । ते ॥na | gha | tvadrik | apa | veti | me | manaḥ | tve iti | it | kāmam | puru-hūta | śiśraya | rājāiva | dasma | ni | sadaḥ | adhi | barhi ṣi | asmin | su | some | ava-pānam | astu | te