Sukta 10.40
युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः । युवं सनिभ्यः स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥
यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं॑ वि॒धवा॑मुरुष्यथः । यु॒वं स॒निभ्य॑: स्त॒नय॑न्तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्य॑म् ॥
yuváṃ ha kṛśáṃ yuvám aśvinā śayúṃ yuváṃ vidhántaṃ vidhávām uruṣyathaḥ | yuváṃ saníbhyaḥ stanáyantam aśvinā́pa vrajám ūrṇuthaḥ saptā́syam ||
You aided the weak; you, O Ashvins, aided Śayu; you protected the worshipper from the widowhood that would consume her. You, O Ashvins, opened out the thunderous enclosure for the gain-seekers—the seven-mouthed (release of many streams of force).
यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त॑म् । वि॒धवा॑म् । उ॒रु॒ष्य॒थः॒ । यु॒वम् । स॒निऽभ्यः॑ । स्त॒नय॑न्तम् । अ॒श्वि॒ना॒ । अप॑ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्तऽआ॑स्यम् ॥युवम् । ह । कृशम् । युवम् । अश्विना । शयुम् । युवम् । विधन्तम् । विधवाम् । उरुष्यथः । युवम् । सनिभ्यः । स्तनयन्तम् । अश्विना । अप । व्रजम् । ऊर्णुथः । सप्तआस्यम् ॥yuvam | ha | kṛśam | yuvam | aśvinā | śayum | yuvam | vidhantam | vidhavām | uruṣyathaḥ | yuvam | sani-bhyaḥ | stanayantam | aśvinā | apa | vrajam | ūrṇuthaḥ | sapta-āsyam