Sukta 10.40
युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे । युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥
यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे । यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥
yuvā́ṃ mṛgéva vāraṇā́ mṛgaṇyávo doṣā́ vástoḥ havíṣā ní hvayāmahe | yuváṃ hotrā́m ṛtuthā́ juhváte naréṣaṃ jánāya vahathaḥ śubhaspatī ||
You two, like eager seekers of the wild, we call with the offering at night and at dawn. You two, lords of beauty, carry to the people the ‘nareṣa’—the man-strength/heroic essence—when the Hotṛ offers in due season and right order.
यु॒वाम् । मृ॒गाऽइ॑व । वा॒र॒णा । मृ॒ग॒ण्यवः॑ । दो॒षा । वस्तोः॑ । ह॒विषा॑ । नि । ह्व॒या॒म॒हे॒ । यु॒वम् । होत्रा॑म् । ऋ॒तु॒ऽथा । जुह्व॑ते । न॒रा॒ । इष॑म् । जना॑य । व॒ह॒थः॒ । शु॒भः॒ । प॒ती॒ इति॑ ॥युवाम् । मृगाइव । वारणा । मृगण्यवः । दोषा । वस्तोः । हविषा । नि । ह्वयामहे । युवम् । होत्राम् । ऋतुथा । जुह्वते । नरा । इषम् । जनाय । वहथः । शुभः । पती इति ॥yuvām | mṛgāiva | vāraṇā | mṛgaṇyavaḥ | doṣā | vastoḥ | haviṣā | ni | hvayāmahe | yuvam | hotrām | ṛtu-thā | juhvate | narā | iṣam | janāya | vahathaḥ | śubhaḥ | patī iti