Sukta 10.40
प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् । कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥
प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् । कस्य॑ ध्व॒स्रा भ॑वथ॒: कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥
prātár jarethe jaraṇéva kā́payā vástoḥ-vastor yajatā́ gacchatho gṛhám | kásya dhvasrā́ bhavathaḥ kásya vā narā rāja-putréva savánāv áva gacchathaḥ ||
At dawn you awaken like an aged woman with her trembling; at each evening and each dawn you, worthy of worship, go to the house. Whose are you as the close companions, whose indeed, O heroes—like princes you go down to the pressings (the savanas).
प्रा॒तः । ज॒रे॒थे॒ इति॑ । ज॒र॒णाऽइ॑व । काप॑या । वस्तोः॑ऽवस्तोः । य॒ज॒ता । ग॒च्छ॒थः॒ । गृ॒हम् । कस्य॑ । ध्व॒स्रा । भ॒व॒थः॒ । कस्य॑ । वा॒ । न॒रा॒ । रा॒ज॒ऽपु॒त्राऽइ॑व । सव॑ना । अव॑ । ग॒च्छ॒थः॒ ॥प्रातः । जरेथे इति । जरणाइव । कापया । वस्तोःवस्तोः । यजता । गच्छथः । गृहम् । कस्य । ध्वस्रा । भवथः । कस्य । वा । नरा । राजपुत्राइव । सवना । अव । गच्छथः ॥prātaḥ | jaretheiti | jaraṇāiva | kāpayā | vastoḥ-vastoḥ | yajatā | gacchathaḥ | gṛham | kasya | dhvasrā | bhavathaḥ | kasya | vā | narā | rāja-putrāiva | savanā | ava | gacchathaḥ