Sukta 10.40
कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः । को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥
कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रत॒: कुहो॑षतुः । को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥
kúha svíd doṣā́ kúha vástoḥ aśvinā kúhābhipitváṃ karatáḥ kúhoṣatuḥ | kó vāṃ śayutrā́ vidhávéva deváraṃ máryaṃ ná yóṣā kṛṇute sadhástha ā́ ||
Where indeed are you at night, where at dawn, O Aśvins? Where do you make your close union, where do you rest? Who prepares your seat of companionship—as a widow seeks her brother-in-law, as a maiden makes ready her beloved—so that you may come to the common dwelling-place?
कुह॑ । स्वि॒त् । दो॒षा । कुह॑ । वस्तोः॑ । अ॒श्विना॑ । कुह॑ । अ॒भि॒ऽपि॒त्वम् । क॒र॒तः॒ । कुह॑ । ऊ॒ष॒तुः॒ । कः । वा॒म् । श॒यु॒ऽत्रा । वि॒धवा॑ऽइव । दे॒वर॑म् । मर्य॑म् । न । योषा॑ । कृ॒णु॒ते॒ । स॒धऽस्थे॑ । आ ॥कुह । स्वित् । दोषा । कुह । वस्तोः । अश्विना । कुह । अभिपित्वम् । करतः । कुह । ऊषतुः । कः । वाम् । शयुत्रा । विधवाइव । देवरम् । मर्यम् । न । योषा । कृणुते । सधस्थे । आ ॥kuha | svit | doṣā | kuha | vastoḥ | aśvinā | kuha | abhi-pitvam | karataḥ | kuha | ūṣatuḥ | kaḥ | vām | śayu-trā | vidhavāiva | devaram | maryam | na | yoṣā | kṛṇute | sadha-sthe | ā