Sukta 10.40
ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे । कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥
ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ । कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥
tā́ mandasānā́ manuṣó duroṇá ā́ dhattáṃ rayíṃ sahávīraṃ vacasyáve | kṛtáṃ tī́rthaṃ su-prapā́ṇaṃ śúbhaspatī sthā́ṇuṃ pathéṣṭhām ápa durmatíṃ hatám ||
You two, rejoicing in the human house, place for the speaker a rayi—fullness with heroic powers. O lords of beauty, make the crossing-place well-watered; strike away the evil mind that stands like a stump blocking the path.
ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒हऽवी॑रम् । व॒च॒स्यवे॑ । कृ॒तम् । ती॒र्थम् । सु॒ऽप्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् । अप॑ । दुः॒ऽम॒तिम् । ह॒त॒म् ॥ता । मन्दसाना । मनुषः । दुरोणे । आ । धत्तम् । रयिम् । सहवीरम् । वचस्यवे । कृतम् । तीर्थम् । सुप्रपानम् । शुभः । पती इति । स्थाणुम् । पथेस्थाम् । अप । दुःमतिम् । हतम् ॥tā | mandasānā | manuṣaḥ | duroṇe | ā | dhattam | rayim | saha-vīram | vacasyave | kṛtam | tīrtham | su-prapānam | śubhaḥ | patī iti | sthāṇum | pathe--sthām | apa | duḥ-matim | hatam