Sukta 10.40
क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती । क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥
क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ । क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ॥
kvà svíd adyá katamā́sv aśvinā vikṣú dasrā́ mādayete śúbhaspatī | ká īṃ ní yeme katamáasya jagmátur víprasya vā yájamānasya vā gṛhám ||
Where indeed today, and among which peoples, do you two mighty ones take delight, O lords of beauty? Who has held you down here—whose house have you gone to, the seer’s or the sacrificer’s?
क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ । कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति । कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥kva | svit | adya | katamāsu | aśvinā | vikṣu | dasrā | mādayeteiti | śubhaḥ | patī iti | kaḥ | īm | ni | yeme | katamasya | jagmatuḥ | viprasya | vā | yajamānasya | vā | gṛham