Sukta 10.38
यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये । तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥
यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ । तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ॥
yó dabhrebhír hávyo yáś ca bhū́ribhir yó abhī́ke varivo-vín nṛsā́hye | táṃ vi-khā́de sásnim adyá śrutáṃ náram arvā́ñcam índram aváse karāmahe ||
He who is to be invoked with little and with much, who near at hand knows the wideness of the path in the man-conquering struggle—him, the swift-impelling, today renowned, we call Indra near to us for help.
यः । द॒भ्रेभिः । हव्यः॑ । यः । च॒ । भूरि॑ऽभिः । यः । अ॒भीके॑ । व॒रि॒वः॒ऽवित् । नृ॒ऽसह्ये॑ । तम् । वि॒ऽखा॒दे । सस्नि॑म् । अ॒द्य । श्रु॒तम् । नर॑म् । अ॒र्वाञ्च॑म् । इन्द्र॑म् । अव॑से । क॒रा॒म॒हे॒ ॥यः । दभ्रेभिः । हव्यः । यः । च । भूरिभिः । यः । अभीके । वरिवःवित् । नृसह्ये । तम् । विखादे । सस्निम् । अद्य । श्रुतम् । नरम् । अर्वाञ्चम् । इन्द्रम् । अवसे । करामहे ॥yaḥ | dabhrebhiḥ | havyaḥ | yaḥ | ca | bhūri-bhiḥ | yaḥ | abhīke | varivaḥ-vit | nṛ-sahye | tam | vi-khāde | sasnim | adya | śrutam | naram | arvāñcam | indram | avase | karāmahe