Sukta 10.38
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥
यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति । अ॒स्माभि॑ष्टे सु॒षहा॑: सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥
yó no dā́sa ā́ryo vā puru-stuta ā́deva indra yudhā́ya cíketa-ti | asmā́bhiṣ ṭe su-ṣáhāḥ santu śátravas tváyā vayáṃ tā́n vanuyāma saṃ-gamé ||
Whether Dāsa or Ārya, whoever, O much-praised Indra, godless in his being, plots to fight us—may his hostilities be easily borne by thee for us; and with thee may we win against them in the encounter.
यः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति । अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥यः । नः । दासः । आर्यः । वा । पुरुस्तुत । अदेवः । इन्द्र । युधये । चिकेतति । अस्माभिः । ते । सुसहाः । सन्तु । शत्रवः । त्वया । वयम् । तान् । वनुयाम । सम्गमे ॥yaḥ | naḥ | dāsaḥ | āryaḥ | vā | puru-stuta | adevaḥ | indra | yudhaye | ciketati | asmābhiḥ | te | su-sahāḥ | santu | śatravaḥ | tvayā | vayam | tān | vanuyāma | sam-game