Sukta 10.38
स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् । स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि ॥
स न॑: क्षु॒मन्तं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमि॑न्द्र श्र॒वाय्य॑म् । स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥
sá naḥ kṣú-mantaṃ sádane vy ūrṇuhi go-árṇasaṃ rayím indra śravā́yyam | syā́ma te jáyataḥ śakra médino yáthā vayám uśmási tád vaso kṛdhi ||
Unfold for us in our dwelling the plenitude that is rich in force, the wealth that overflows with rays, O Indra—wealth worthy of hearing. Make us, O mighty one, companions of your victory and wide in our foundation; as we aspire, so do thou accomplish it for us.
सः । नः॒ । क्षु॒ऽमन्त॑म् । सद॑ने । वि । ऊ॒र्णु॒हि॒ । गोऽअ॑र्णसम् । र॒यिम् । इ॒न्द्र॒ । श्र॒वाय्य॑म् । स्याम॑ । ते॒ । जय॑तः । श॒क्र॒ । मे॒दिनः॑ । यथा॑ । व॒यम् । उ॒श्मसि॑ । तत् । व॒सो॒ इति॑ । कृ॒धि॒ ॥सः । नः । क्षुमन्तम् । सदने । वि । ऊर्णुहि । गोअर्णसम् । रयिम् । इन्द्र । श्रवाय्यम् । स्याम । ते । जयतः । शक्र । मेदिनः । यथा । वयम् । उश्मसि । तत् । वसो इति । कृधि ॥saḥ | naḥ | kṣu-mantam | sadane | vi | ūrṇuhi | go--arṇasam | rayim | indra | śravāyyam | syāma | te | jayataḥ | śakra | medinaḥ | yathā | vayam | uśmasi | tat | vaso iti | kṛdhi