Sukta 10.38
अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये । यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये ॥
अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये॑ । यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत॑न्ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥
asmínna indra pṛtsutáu yáśasvati śimī́vati krándasi prā́va sātáye | yátra góṣātā dhṛṣitéṣu khā́diṣu víṣvak pátanti didyávo nṛṣā́hye ||
Here, O Indra, in this glorious clash, in this forceful battle-cry, roar forth for our victory—where for the winning of the rays (cows of light), amid the bold onsets, the flashes fly in all directions in the man-conquering struggle.
अ॒स्मिन् । नः॒ । इ॒न्द्र॒ । पृ॒त्सु॒तौ । यश॑स्वति । शिमी॑ऽवति । क्रन्द॑सि । प्र । अ॒व॒ । सा॒तये॑ । यत्र॑ । गोऽसा॑ता । धृ॒षि॒तेषु॑ । खा॒दिषु॑ । विष्व॑क् । पत॑न्ति । दि॒द्यवः॑ । नृ॒ऽसह्ये॑ ॥अस्मिन् । नः । इन्द्र । पृत्सुतौ । यशस्वति । शिमीवति । क्रन्दसि । प्र । अव । सातये । यत्र । गोसाता । धृषितेषु । खादिषु । विष्वक् । पतन्ति । दिद्यवः । नृसह्ये ॥asmin | naḥ | indra | pṛtsutau | yaśasvati | śimī-vati | krandasi | pra | ava | sātaye | yatra | go--sātā | dhṛṣiteṣu | khādiṣu | viṣvak | patanti | didyavaḥ | nṛ-sahye