Sukta 10.37
यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः । अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभि॑: । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥
yásya te víśvā́ bhúvanāni ketúnā prá cerate ní ca viśánte aktúbhiḥ | anāgā́s-tvéna hari-keśa sū́rya ahnā́-ahnā no vásyasā-vasyasā úd ihi ||
By whose sign all worlds move forward and withdraw, entering the nights—O Sun of green-gold hair, rise for us day by day with a blameless being, bringing ever more of the better and the best.
यस्य॑ । ते॒ । विश्वा॑ । भुव॑नानि । के॒तुना॑ । प्र । च॒ । ईर॑ते । नि । च॒ । वि॒शन्ते॑ । अ॒क्तुऽभिः॑ । अ॒ना॒गाः॒ऽत्वेन॑ । ह॒रि॒ऽके॒श॒ । सू॒र्य॒ । अह्ना॑ऽअह्ना । नः॒ । वस्य॑साऽवस्यसा । उत् । इ॒हि॒ ॥यस्य । ते । विश्वा । भुवनानि । केतुना । प्र । च । ईरते । नि । च । विशन्ते । अक्तुभिः । अनागाःत्वेन । हरिकेश । सूर्य । अह्नाअह्ना । नः । वस्यसावस्यसा । उत् । इहि ॥yasya | te | viśvā | bhuvanāni | ketunā | pra | ca | īrate | ni | ca | viśante | aktu-bhiḥ | anāgāḥ-tvena | hari-keśa | sūrya | ahnā ahnā | naḥ | vasyasāvasyasā | ut | ihi