Sukta 10.37
महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः । आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मय॑: । आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥
mahí jyótir bíbhrataṃ tvā vi-cakṣaṇa bhā́svantaṃ cákṣuṣe-cakṣuṣe máyaḥ | ā-róhantaṃ bṛhatáḥ pā́jasaḥ pári vayáṃ jīvā́ḥ práti paśyema sūrya ||
O far-seeing Sun, bearing the vast Light, luminous delight to every seeing, as you ascend encircling the greatness of your radiance—may we, still living, behold you face to face.
महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ । आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥महि । ज्योतिः । बिभ्रतम् । त्वा । विचक्षण । भास्वन्तम् । चक्षुषेचक्षुषे । मयः । आरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥mahi | jyotiḥ | bibhratam | tvā | vi-cakṣaṇa | bhāsvantam | cakṣuṣe--cakṣuṣe | mayaḥ | ārohantam | bṛhataḥ | pājasaḥ | pari | vayam | jīvāḥ | prati | paśyema | sūrya