Sukta 10.37
शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन । यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥
शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ । यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥
śáṃ no bhava cákṣasā śáṃ no ahnā́ śáṃ bhānúnā śáṃ himā́ śáṃ ghṛṇéna | yáthā śám adhváñ chám ásad duróṇe tát sūrya dráviṇaṃ dhehi citrám ||
Be for us peace by thy seeing, peace by the day, peace by thy ray, peace by the cold, peace by thy warmth and glow. So that there is peace on the journey and peace in the home—O Sun, place in us a manifold treasure of being.
शम् । नः॒ । भ॒व॒ । चक्ष॑सा । सम् । नः॒ । अह्ना॑ । शम् । भा॒नुना॑ । शम् । हि॒माः । शम् । घृ॒णेन॑ । यथा॑ । शम् । अध्व॑न् । शम् । अस॑त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥शम् । नः । भव । चक्षसा । सम् । नः । अह्ना । शम् । भानुना । शम् । हिमाः । शम् । घृणेन । यथा । शम् । अध्वन् । शम् । असत् । दुरोणे । तत् । सूर्य । द्रविणम् । धेहि । चित्रम् ॥śam | naḥ | bhava | cakṣasā | sam | naḥ | ahnā | śam | bhānunā | śam | himāḥ | śam | ghṛṇena | yathā | śam | adhvan | śam | asat | duroṇe | tat | sūrya | draviṇam | dhehi | citram