Sukta 10.37
तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः । मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥
तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑: शृण्वन्तु म॒रुतो॒ हवं॒ वच॑: । मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥
táṃ no dyā́vā-pṛthivī́ tán na ā́pa índraḥ śṛṇvantu marúto hávaṃ vácaḥ | mā́ śū́ne bhūma sū́ryasya saṃ-dṛ́śi bhadráṃ jī́vanto jaráṇām aśīmahi ||
May Heaven-and-Earth and the Waters, and Indra, and the Maruts listen to our call and our word. Let us not be left in the void before the Sun’s vision; living in the auspiciousness of his seeing, may we attain our full term and ripeness of being.
तम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । तत् । नः॒ । आपः॑ । इन्द्रः॑ । शृ॒ण्व॒न्तु॒ । म॒रुतः॑ । हव॑म् । वचः॑ । मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । भ॒द्रम् । जीव॑न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥तम् । नः । द्यावापृथिवी इति । तत् । नः । आपः । इन्द्रः । शृण्वन्तु । मरुतः । हवम् । वचः । मा । शूने । भूम । सूर्यस्य । सम्दृशि । भद्रम् । जीवन्तः । जरणाम् । अशीमहि ॥tam | naḥ | dyāvāpṛthivī iti | tat | naḥ | āpaḥ | indraḥ | śṛṇvantu | marutaḥ | havam | vacaḥ | mā | śūne | bhūma | sūryasya | sam-dṛśi | bhadram | jīvantaḥ | jaraṇām | aśīmahi