Sukta 10.37
विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु । यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥
víśvasya hí préṣito rákṣasi vratám áheḷayann úccarasi svadhā́ ánu | yád adyá tvā sūrya upabravā́mahai táṃ no devā́ ánu maṃsīrata krátum ||
For you, sent forth for all, guard the law; without anger you rise, following your own right power. What today we speak forth to you, O Sūrya—may the Gods consent to it and confirm our will.
विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ । यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥विश्वस्य । हि । प्रइषितः । रक्षसि । व्रतम् । अहेळयन् । उत्चरसि । स्वधाः । अनु । यत् । अद्य । त्वा । सूर्य । उपब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम् ॥viśvasya | hi | pra-iṣitaḥ | rakṣasi | vratam | aheḷayan | ut-carasi | svadhāḥ | anu | yat | adya | tvā | sūrya | upa-bravāmahai | tat | naḥ | devāḥ | anu | maṃsīrata | kratum