Sukta 10.37
अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे । अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥
अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥
asmā́kaṃ devā ubháyāya jánmane śárma yacchata dvi-páde catúṣ-pade | ádat píbad ūrjáyamānam ā́śitaṃ tád asmé śáṃ yór arápo dadhātana ||
O Gods, grant shelter to our twofold birth, to the two-footed and the four-footed. Eating and drinking, growing in the sustaining force and satisfied—set for us that peace and happy ease, free from harm.
अ॒स्माक॑म् । दे॒वाः॒ । उ॒भया॑य । जन्म॑ने । शर्म॑ । य॒च्छ॒त॒ । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आशि॑तम् । तत् । अ॒स्मे इति॑ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥अस्माकम् । देवाः । उभयाय । जन्मने । शर्म । यच्छत । द्विपदे । चतुःपदे । अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥asmākam | devāḥ | ubhayāya | janmane | śarma | yacchata | dvi-pade | catuḥ-pade | adat | pibat | ūrjayamānam | āśitam | tat | asme iti | śam | yoḥ | arapaḥ | dadhātana