Sukta 10.35
पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि । विश्वा इदुस्राः स्पळुदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥
पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि । विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्य॑: स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
pípartu mā tád ṛtásya prá-vācanam devā́nāṁ yán manuṣyā́ amanmahi | víśvā íd usrā́ḥ spaṭ úd eti sū́ryaḥ svastí agníṁ samidhānám īmahe ||
May that utterance of Ṛta fill me—the word of the gods which we mortals have come to perceive. All the radiant lights—clearly—rise up as the Sun goes forth. For well-being we seek Agni who is being kindled within.
पिप॑र्तु । मा॒ । तत् । ऋ॒तस्य॑ । प्र॒ऽवाच॑नम् । दे॒वाना॑म् । यत् । म॒नु॒ष्याः॑ । अम॑न्महि । विश्वाः॑ । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्यः॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥पिपर्तु । मा । तत् । ऋतस्य । प्रवाचनम् । देवानाम् । यत् । मनुष्याः । अमन्महि । विश्वाः । इत् । उस्राः । स्पट् । उत् । एति । सूर्यः । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥pipartu | mā | tat | ṛtasya | pra-vācanam | devānām | yat | manuṣyāḥ | amanmahi | viśvāḥ | it | usrāḥ | spaṭ | ut | eti | sūryaḥ | svasti | agnim | sam-idhānam | īmahe