Sukta 10.35
श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि । रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥
श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ । रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
śréṣṭhaṁ no adyá savitar váreṇyaṁ bhāgám ā́ suva sá hí ratna-dhā́ ási | rāyó jánitrīṁ dhiṣáṇām úpa bruve svastí agníṁ samidhānám īmahe ||
O Savitar, bring forth for us today the best and most to-be-chosen share, for thou art indeed the holder of the treasures. I call near the Dhiṣaṇā, the begetter of plenitude. For well-being we seek Agni who is being kindled within.
श्रेष्ठ॑म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे॑ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒ऽधाः । असि॑ । रा॒यः । जनि॑त्रीन् । धि॒षणा॑म् । उप॑ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥श्रेष्ठम् । नः । अद्य । सवितः । वरेण्यम् । भागम् । आ । सुव । सः । हि । रत्नधाः । असि । रायः । जनित्रीन् । धिषणाम् । उप । ब्रुवे । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥śreṣṭham | naḥ | adya | savitaḥ | vareṇyam | bhāgam | ā | suva | saḥ | hi | ratna-dhāḥ | asi | rāyaḥ | janitrīn | dhiṣaṇām | upa | bruve | svasti | agnim | sam-idhānam | īmahe