Sukta 10.35
अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् । आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥
अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् । आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
anamīvā́ uṣása ā́ carantu na úd agnáyo jihatāṁ jyótiṣā bṛhát | ā́yukṣātām aśvínā tūtújiṁ ráthaṁ svastí agníṁ samidhānám īmahe ||
May the Dawns come to us free from affliction; may the Fires leap up with the vast light. May the Aśvins yoke their swift-impelling chariot. For well-being we seek Agni who is being kindled within.
अ॒न॒मी॒वाः । उ॒षसः॑ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः॑ । जि॒ह॒ता॒म् । ज्योति॑षा । बृ॒हत् । अयु॑क्षाताम् । अ॒श्विना॑ । तूतु॑जिम् । रथ॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥अनमीवाः । उषसः । आ । चरन्तु । नः । उत् । अग्नयः । जिहताम् । ज्योतिषा । बृहत् । अयुक्षाताम् । अश्विना । तूतुजिम् । रथम् । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥anamīvāḥ | uṣasaḥ | ā | carantu | naḥ | ut | agnayaḥ | jihatām | jyotiṣā | bṛhat | ayukṣātām | aśvinā | tūtujim | ratham | svasti | agnim | sam-idhānam | īmahe