Sukta 10.35
प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु । भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥
प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु । भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
prá yā́ḥ sísrate sū́ryasya raśmíbhir jyótir bhárantīr uṣáso vy ùṣṭíṣu | bhadrā́ no adyá śrávase vy ùcchata svastí agníṁ samidhānám īmahe ||
Those Dawns that surge forward bearing light with the Sun’s rays in their awakenings—may they dawn for us today as the Good for our hearing and inner fame. For well-being we seek Agni who is being kindled within.
प्र । याः । सिस्र॑ते । सूर्य॑स्य । र॒श्मिऽभिः॑ । ज्योतिः॑ । भर॑न्तीः । उ॒षसः॑ । विऽउ॑ष्टिषु । भ॒द्राः । नः॒ । अ॒द्य । श्रव॑से । वि । उ॒च्छ॒त॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥प्र । याः । सिस्रते । सूर्यस्य । रश्मिभिः । ज्योतिः । भरन्तीः । उषसः । विउष्टिषु । भद्राः । नः । अद्य । श्रवसे । वि । उच्छत । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥pra | yāḥ | sisrate | sūryasya | raśmi-bhiḥ | jyotiḥ | bharantīḥ | uṣasaḥ | vi-uṣṭiṣu | bhadrāḥ | naḥ | adya | śravase | vi | ucchata | svasti | agnim | sam-idhānam | īmahe