Sukta 10.35
इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु । आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥
इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु । आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
iyáṁ na usrā́ prathamā́ su-devyàṁ revát-sanibhyo revátī vy ùcchatu | ārè manyúṁ dur-vidátrasya dhīmahi svastí agníṁ samidhānám īmahe ||
May this first radiant Dawn shine forth for us with a happy divine working, rich in plenitudes for those who win; far away may we set the anger of the ill-finding power. For well-being we seek Agni who is being kindled within.
इ॒यम् । नः॒ । उ॒स्रा । प्र॒थ॒मा । सु॒ऽदे॒व्य॑म् । रे॒वत् । स॒निऽभ्यः॑ । रे॒वती॑ । वि । उ॑च्छतु । आ॒रे । म॒न्युम् । दुः॒ऽवि॒दत्र॑स्य । धी॒म॒हि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥इयम् । नः । उस्रा । प्रथमा । सुदेव्यम् । रेवत् । सनिभ्यः । रेवती । वि । उच्छतु । आरे । मन्युम् । दुःविदत्रस्य । धीमहि । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥iyam | naḥ | usrā | prathamā | su-devyam | revat | sani-bhyaḥ | revatī | vi | ucchatu | āre | manyum | duḥ-vidatrasya | dhīmahi | svasti | agnim | sam-idhānam | īmahe