Sukta 10.35
दिवस्पृथिव्योरव आ वृणीमहे मातॄन्त्सिन्धून्पर्वताञ्छर्यणावतः । अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥
दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः । अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोम॑: सुवा॒नो अ॒द्या कृ॑णोतु नः ॥
divás pṛthivyór áva ā́ vṛṇīmahe mātṝ́n sindhū́n párvatāñ char-yaṇā́vataḥ | anāgā́s tváṁ sū́ryam uṣā́sām īmahe bhadráṁ sómaḥ suvānáḥ adyā́ kṛṇotu naḥ ||
From Heaven and Earth we choose for ourselves the saving protection; we call also the sustaining Mothers— the Rivers and the firm Mountains rich in movement and strength. O blameless One, we invoke the Sun and the Dawn within us; may Soma, pressed out today, create for us the Good—an auspicious state of being.
दि॒वःपृ॑थि॒व्योः । अवः॑ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू॑न् । पर्व॑तान् । श॒र्य॒णाऽव॑तः । अ॒ना॒गाः॒ऽत्वम् । सूर्य॑म् । उ॒षस॑म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः॑ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥दिवःपृथिव्योः । अवः । आ । वृणीमहे । मातॄन् । सिन्धून् । पर्वतान् । शर्यणावतः । अनागाःत्वम् । सूर्यम् । उषसम् । ईमहे । भद्रम् । सोमः । सुवानः । अद्य । कृणोतु । नः ॥divaḥpṛthivyoḥ | avaḥ | ā | vṛṇīmahe | mātṝn | sindhūn | parvatān | śaryaṇāvataḥ | anāgāḥ-tvam | sūryam | uṣasam | īmahe | bhadram | somaḥ | suvānaḥ | adya | kṛṇotu | naḥ