Sukta 10.35
अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु । मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥
अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु । म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥
ábudhram u tyá índravanto agnáyo jyótir bháranta uṣáso vyùṣṭiṣu | mahī́ dyā́vāpṛthivī́ cetatām ápo 'dyá devā́nām áva ā́ vṛṇīmahe ||
They have awakened—those fires filled with Indra’s force—bringing the light in the dawn’s unfoldings. Let vast Heaven and Earth take heed; and the Waters too. Today we choose the help of the gods, that the inner day may rise.
अबु॑ध्रम् । ऊँ॒ इति॑ । त्ये । इन्द्र॑ऽवन्तः । अ॒ग्नयः॑ । ज्योतिः॑ । भर॑न्तः । उ॒षसः॑ । विऽउ॑ष्टिषु । म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । चे॒त॒ता॒म् । अपः॑ । अ॒द्य । दे॒वाना॑म् । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥अबुध्रम् । ऊँ इति । त्ये । इन्द्रवन्तः । अग्नयः । ज्योतिः । भरन्तः । उषसः । विउष्टिषु । मही इति । द्यावापृथिवी इति । चेतताम् । अपः । अद्य । देवानाम् । अवः । आ । वृणीमहे ॥abudhram | oṃ iti | tye | indra-vantaḥ | agnayaḥ | jyotiḥ | bharantaḥ | uṣasaḥ | vi-uṣṭiṣu | mahī iti | dyāvāpṛthivī iti | cetatām | apaḥ | adya | devānām | avaḥ | ā | vṛṇīmahe