Sukta 10.35
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥
viśvé adyá marúto viśva ūtí viśvé bhavantv agnáyaḥ samiddhā́ḥ | viśvé no devā́ avásā gamantu viśvám astu dráviṇaṃ vā́jo asmē ||
May all the Maruts today become for us the universal help; may all the fires be fully kindled. May all the gods come to us with their protection, and may there be in us the complete abundance—substance of being and plenitude of force.
विश्वे॑ । अ॒द्य । म॒रुतः॑ । विश्वे॑ । ऊ॒ती । विश्वे॑ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । सम्ऽइ॑द्धाः । विश्वे॑ । नः॒ । दे॒वाः । अ॒व॒सा । आ । ग॒म॒न्तु॒ । विश्व॑म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥विश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । सम्इद्धाः । विश्वे । नः । देवाः । अवसा । आ । गमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे इति ॥viśve | adya | marutaḥ | viśve | ūtī | viśve | bhavantu | agnayaḥ | sam-iddhāḥ | vi śve | naḥ | devāḥ | avasā | ā | gamantu | viśvam | astu | draviṇam | vājaḥ | asme iti