Sukta 10.35
यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः । यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंह॑: । यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥
yáṃ devāso ’vatha vā́jasātau yáṃ trā́yadhve yáṃ pipṛthā́ty áṃhaḥ | yó vo gopīthé ná bhayásya véda té syāma devávītaye turāsaḥ ||
He whom you Gods support in the winning of plenitude, whom you protect, whom you carry beyond distress—he who, in your guardianship, knows no fear: may we become such, O swift powers, fit for the gods’ delight and their coming to us.
यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । त्राय॑ध्वे । यम् । पि॒पृ॒थ । अति॑ । अंहः॑ । यः । वः॒ । गो॒ऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वऽवी॑तये । तु॒रा॒सः॒ ॥यम् । देवासः । अवथ । वाजसातौ । यम् । त्रायध्वे । यम् । पिपृथ । अति । अंहः । यः । वः । गोपीथे । न । भयस्य । वेद । ते । स्याम । देववीतये । तुरासः ॥yam | devāsaḥ | avatha | vāja-sātau | yam | trāyadhve | yam | pipṛtha | ati | aṃhaḥ | yaḥ | vaḥ | go--pīthe | na | bhayasya | veda | te | syāma | deva-vītaye | turāsaḥ